सद्रूपचिद्रूपसुखस्वरूपं
तद्ब्रम्हवाच्यं परमात्मतत्वम्
वन्देऽनसूयात्रिसुतं सुपूज्यं
दत्ताभिधेयं गुरुराजमाद्यम्
श्रीपादराजं गुरुषुद्वितीयं
नृसिंहरूपं वरदं तृतीयम्
श्रीमाणिकाख्यं यतिनं चतुर्थं
श्रीभक्तकार्येषु कल्पद्रुमं तम्
तत्पञ्चमं पूज्यमनोहराख्यं
मार्तण्डनामानमपीह षष्ठम्
श्रीशङ्कराख्यं प्रभुसप्तमं तं
तं सिद्धराजप्रभुमष्टमं वै
श्रीज्ञानराजं नवमं गुरुं तं
सुज्ञानदं दत्तगुरोश्च वंशम्
अन्यान् सदाभक्तसुमोक्षदक्षान्
अस्मद्गुरुं सन्ततमानतोऽस्मि
Jai Guru Manik 🙏 🙏🙏🙏🙏
JAI GURU MANIK
🙏🙏🙏🙏🙏
Jai guru Manik